ॐ अस्य आदित्य हृदयस्तोत्रस्यागस्त्यऋषिरनुष्टुपछन्दः, आदित्येहृदयभूतोभगवान ब्रह्मा देवता निरस्ताशेषविघ्नतया ब्रह्मविद्यासिद्धौ सर्वत्र जयसिद्धौ च विनियोगः।
ऋष्यादिन्यास
ॐ अगस्त्यऋषये नमः, शिरसि। अनुष्टुपछन्दसे नमः, मुखे। आदित्यहृदयभूतब्रह्मदेवतायै नमः हृदि।
ॐ बीजाय नमः, गुह्यो। रश्मिमते शक्तये नमः, पादयो।
ॐ तत्सवितुरित्यादिगायत्रीकीलकाय नमः नाभौ।
करन्यास
ॐ रश्मिमते अंगुष्ठाभ्यां नमः। ॐ समुद्यते तर्जनीभ्यां नमः।ॐ देवासुरनमस्कृताय मध्यमाभ्यां नमः। ॐ विवरवते अनामिकाभ्यां नमः।ॐ भास्कराय कनिष्ठिकाभ्यां नमः। ॐ भुवनेश्वराय करतलकरपृष्ठाभ्यां नमः।
हृदयादि अंगन्यास
ॐ रश्मिमते हृदयाय नमः। ॐ समुद्यते शिरसे स्वाहा। ॐ देवासुरनमस्कृताय शिखायै वषट्।ॐ विवस्वते कवचाय हुम्। ॐ भास्कराय नेत्रत्रयाय वौषट्। ॐ भुवनेश्वराय अस्त्राय फट्।इस प्रकार न्यास करके निम्नांकित मंत्र से भगवान सूर्य का ध्यान एवं नमस्कार करना चाहिए-ॐ भूर्भुवः स्वः तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात्।
Aditya Hridaya Stotram
ततो युद्धपरिश्रान्तम् समरे चिन्तया स्थितम । रावणम् चाग्रतो दृष्टवा युद्धाय समुपस्थितम ॥ 1दैवतैश्च समागम्य दृष्टुमभ्यागतो रणम । उपागम्या ब्रवीद्राम-मगस्तयो भगवान् ऋषिः ॥ 2
राम राम महाबाहो शृणु गुह्यम सनातनम । येन सर्वानरीन वत्स समरे विजयिष्यसि ॥ 3 आदित्यहृदयम् पुण्यम सर्वशत्रु-विनाशनम । जयावहम् जपेन्नित्य-मक्षय्यम परमम् शिवम् ॥ 4 सर्वमंगल-मांगलयम सर्वपाप प्रणाशनम् । चिंताशोक-प्रशमन-मायुरवर्धन-मुत्तमम् ॥ 5
रश्मिमन्तम समुद्यन्तम देवासुर-नमस्कृतम् । पूजयस्व विवस्वन्तम भास्करम् भुवनेश्वरम् ॥ 6
सर्वदेवात्मको ह्येष तेजस्वी रश्मि-भावनः । एष देवासुरगणान् लोकान पाति गभस्तिभिः ॥ 7
एष ब्रह्मा च विष्णुश्च शिवः स्कन्दः प्रजापतिः । महेन्द्रो धनदः कालो यमः सोमो ह्यपामपतिः ॥ 8
पितरो वसवः साध्या ह्यश्विनौ मरुतो मनुः । वायुर्वहनी: प्रजाप्राण ऋतु कर्ता प्रभाकरः ॥ 9
आदित्यः सविता सूर्यः खगः पूषा गभस्तिमान । सुवर्णसदृशो भानुर-हिरण्यरेता दिवाकरः ॥ 10
हरिदश्वः सहस्रार्चि: सप्तसप्ति-मरीचिमान । तिमिरोन्मन्थन: शम्भुस्त्वष्टा मार्ताण्ड अंशुमान ॥ 11
हिरण्यगर्भः शिशिरस्तपनो भास्करो रविः । अग्निगर्भोsदिते: पुत्रः शंखः शिशिरनाशान: ॥ 12
व्योम नाथस्तमोभेदी ऋग्य जुस्सामपारगः । धनवृष्टिरपाम मित्रो विंध्यवीथिप्लवंगम: ॥ 13
आतपी मंडली मृत्युः पिंगलः सर्वतापनः । कविर्विश्वो महातेजाः रक्तः सर्वभवोद्भव: ॥ 14
नक्षत्रग्रहताराणा-मधिपो विश्वभावनः । तेजसामपि तेजस्वी द्वादशात्मन्नमोस्तुते ॥ 15
नमः पूर्वाय गिरये पश्चिमायाद्रए नमः । ज्योतिर्गणानां पतये दिनाधिपतये नमः ।। 16 जयाय जयभद्राय हर्यश्वाए नमो नमः । नमो नमः सहस्रांशो आदित्याय नमो नमः ॥ 17 नम उग्राय वीराय सारंगाय नमो नमः । नमः पद्मप्रबोधाय मार्तण्डाय नमो नमः ॥ 18
ब्रह्मेशानाच्युतेषाय सूर्यायादित्यवर्चसे । भास्वते सर्वभक्षाय रौद्राय वपुषे नमः ॥19
तमोघ्नाय हिमघ्नाय शत्रुघ्नायामितात्मने । कृतघ्नघ्नाय देवाय ज्योतिषाम् पतये नमः ॥ 20
तप्तचामिकराभाय वह्नये विश्वकर्मणे ।नमस्तमोsभिनिघ्नाये रुचये लोकसाक्षिणे ॥ 21
नाशयत्येष वै भूतम तदेव सृजति प्रभुः । पायत्येष तपत्येष वर्षत्येष गभस्तिभिः ॥ 22
एष सुप्तेषु जागर्ति भूतेषु परिनिष्ठितः । एष एवाग्निहोत्रम् च फलं चैवाग्निहोत्रिणाम ॥ 23
वेदाश्च क्रतवश्चैव क्रतुनाम फलमेव च । यानि कृत्यानि लोकेषु सर्व एष रविः प्रभुः ॥ 24
एन मापत्सु कृच्छ्रेषु कान्तारेषु भयेषु च । कीर्तयन पुरुष: कश्चिन्नावसीदति राघव ॥ 25
पूज्यस्वैन-मेकाग्रे देवदेवम जगत्पतिम । एतत त्रिगुणितम् जप्त्वा युद्धेषु विजयिष्यसि ॥ 26
अस्मिन क्षणे महाबाहो रावणम् तवं वधिष्यसि । एवमुक्त्वा तदाsगस्त्यो जगाम च यथागतम् ॥ 27
एतच्छ्रुत्वा महातेजा नष्टशोकोsभवत्तदा । धारयामास सुप्रितो राघवः प्रयतात्मवान ॥ 28
आदित्यं प्रेक्ष्य जप्त्वा तु परम हर्षमवाप्तवान् । त्रिराचम्य शुचिर्भूत्वा धनुरादाय वीर्यवान ॥ 29
रावणम प्रेक्ष्य हृष्टात्मा युद्धाय समुपागमत । सर्वयत्नेन महता वधे तस्य धृतोsभवत् ॥ 30
अथ रवि-रवद-न्निरिक्ष्य रामम | मुदितमनाः परमम् प्रहृष्यमाण: ।
निशिचरपति-संक्षयम् विदित्वा सुरगण-मध्यगतो वचस्त्वरेति ॥